मङ्गल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल्यम्, क्ली, (मङ्गलाय साधु इति । मङ्गल + “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।) दधि । इति मेदिनी । ये, १०१ ॥ चन्दनम् । मङ्गल्यागुरु । स्वर्णम् । सिन्दूरम् । इति राज- निर्घण्टः ॥

मङ्गल्यम्, त्रि, (मङ्गलाय साधु । मङ्गल + यत् ।) शिवकरम् । इति मेदिनी । ये, १०१ ॥ (यथा, उत्तरचरिते । ७ म अङ्के । “पाप्मभ्यश्च पुनाति वर्द्धयति च श्रेयांसि येयं कथा । मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ॥” यथाच, महाभारते । १ । १ । २४ । मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥”) रुचिरम् । इति हेमचन्द्रः ॥ साधुः । इति धरणिः ॥

मङ्गल्यः, पुं, (मङ्गलाय साधुः । मङ्गल + “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।) त्राय- माणा । अश्वत्थः । विल्वः । मसूरकः । इति मेदिनी । ये, १०० ॥ जीवकः । नारिकेलः । कपित्थः । रीठाकरञ्जः । इति राजनिर्घण्ठः ॥ (जीव इति ख्यातः शाकषिशेषः । तत्पर्य्यायो यथा, -- “जीवन्ती जीवनी जीवा जीवर्न या मधुस्रवा । मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल्य¦ न॰ मङ्गलाय हितं यत्।

१ चन्दने

२ मङ्गलागुरुणि

३ स्वर्णे

४ सिन्दूरे राजनि॰

५ दध्नि च।

६ रुचिरे त्रि॰ हेम॰

७ मङ्गलकरे त्रि॰ मेदि॰।
“सर्वमङ्गलमङ्गल्ये” इतिदेवीमा॰।

८ षश्वत्थे

९ बिल्वे

१० जीरके॰

११ मसूरके च पु॰मेदि॰

१२ नारिकेले

१३ कपित्थे

१४ रीठाकरञ्जे च पु॰राजनि॰।

१५ त्रायमाणौषधौ पु॰ धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल्य¦ mfn. (-ल्यः-ल्या-ल्यं)
1. Auspicious, propitious, conferring happi- ness, prosperity, &c.
2. Beautiful, pleasing, agreeable.
2. Pure, pious. m. (-ल्यः)
1. A plant, commonly Trayama4na.
2. The holy fig-tree, (Ficus religiosa.)
3. The Vilwa, (Ægle marme- los.)
4. A sort of pulse, (Cicer lens.)
5. The cocoanut-tree. f. (-ल्या)
1. A fragrant sort of Agallochum or aloe wood.
2. A kind of Mimosa, (M. Suma, Rox.)
3. A herb, commonly Gojihva4, (Hieracium or according to Rox's Catalogue, a herb of the same class, Elephantopus scaber.)
4. A sort of grass, (Andropogun aciculatum.)
5. A sort of fennel, (Anethum sowa.)
6. A sort or perfume, commonly Rochana
4.
7. A kind of Orris root, (Acorus calamus.) n. (-ल्यं)
1. Sour curds.
2. Sandal.
3. Red lead.
4. Gold.
5. Water brought from various sacred places for the coronation of a king. E. मङ्गल prosperous and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल्य [maṅgalya], a. [मङ्गलाय हितं यत्]

Auspicious, fortunate, happy, lucky, prosperous; मङ्गल्यं मङ्गलं विष्णुम् Mb.1.1.24; मङ्गल्यं ब्राह्मणस्य स्यात् Ms.2.31.

Pleasing, agreeable, beautiful.

Holy, pure, pious; त्रिलोकीमङ्गल्याम् U.4.1.

ल्यः The sacred fig-tree.

The cocoa-nut tree.

A sort of pulse.

The Bilva tree.

ल्या A species of fragrant sandal; मङ्गल्यागुरुशिशिरा गन्धाढ्या दोषवाहिका Rājanighaṇṭu.

N. of Durgā.

A kind of aloewood.

A particular perfume.

A particular yellow pigment.

ल्यम् Auspicious water for the coronation of a king (brought from various holy places).

Gold.

Sandal-wood.

Red lead.

Sour curds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गल्य mf( आ)n. auspicious , lucky , conferring happiness Kaus3. Mn. MBh. etc.

मङ्गल्य mf( आ)n. beautiful , pleasing , agreeable MW.

मङ्गल्य mf( आ)n. pious , pure , holy Uttarar.

मङ्गल्य m. Cicer Lens Sus3r.

मङ्गल्य mf( आ)n. Aegle Marmelos Sa1h.

मङ्गल्य mf( आ)n. Ficus Religiosa L.

मङ्गल्य mf( आ)n. Ficus Heterophylla L. (correctly मङ्गला-र्हा)

मङ्गल्य mf( आ)n. the cocoa-nut tree , I.

मङ्गल्य mf( आ)n. Feronia Elephantum L.

मङ्गल्य mf( आ)n. a species of करञ्जL.

मङ्गल्य mf( आ)n. = जीवकL.

मङ्गल्य mf( आ)n. N. of a serpent demon Buddh.

मङ्गल्य n. an auspicious prayer Ma1rkP.

मङ्गल्य n. any -auspauspicious thing Gaut. Sus3r.

मङ्गल्य n. Var , (sg. collectively Hcat. )

मङ्गल्य n. bathing with the juice of all medicinal plants L.

मङ्गल्य n. water brought from various sacred places for the consecration of a king etc. MW.

मङ्गल्य n. sour curds L.

मङ्गल्य n. sandal wood L.

मङ्गल्य n. a kind of Agallochum L.

मङ्गल्य n. gold L.

मङ्गल्य n. red lead L.

"https://sa.wiktionary.org/w/index.php?title=मङ्गल्य&oldid=313268" इत्यस्माद् प्रतिप्राप्तम्